This page has not been fully proofread.

१२४
 
अमरुशतकम्
 
प्रमदा०, (१८) कर किसलयं ०, (१९) इदं कृष्णं कृष्णं, all from
Arjuna and Rudrama.
 
are
 
With the exception of नभसि जलदलक्ष्मीं and सालक्तकेन
नवपल्लव •, he excludes all the verses of Vema. which
excluded by Arjuna ; प्रासादे सा of Arjuna and प्रयच्छाहारं
में, किंचिन्मुद्रितपांसवः, ललना लोलधम्मिल्ल०, वान्ति कहार० of
Rudrama are also omitted by him.
 
The following verses exclusively belong to Ravicandra:-
कोपस्त्वया हृदि कृतो यदि पङ्कजाक्षि
 
सोऽस्तु प्रियस्तव किमत्र विधेयमन्यत् ।
आश्लेषमर्पय मदर्पितपूर्वमुच्चे-
मह्यं समर्पय मदर्पितचुम्बनं च ॥ १ ॥
ऊरुद्वयं मृगदृशः कदलस्य काण्डौ
मध्यं च वेदिरतुलं स्तनयुग्ममस्याः ।
लावण्यवारिपरिपूरितशातकुम्भ-
कुम्भौ मनोजनृपतेरभिषेचनाय ॥ २ ॥
हारो जलार्द्रवसनं नलिनीदलानि
प्रालेयशीकरमुचस्तुहिनांशुभासः ।
यस्येन्धनानि सरसानि च चन्दनानि
निर्वाणमेष्यति कथं स मनोभवाग्निः ॥ ३॥
 
तन्वी शरत त्रिपथगा पुलिने कपोले
लोले दृशौ रुचिरचञ्चलखञ्जरीटौ ।
तद्बन्धनाय सुचिरार्पितसुभ्रुचाप-
चाण्डालपाशयुगलाविव शून्यकर्णौ ॥। ४ ॥
 
हारोऽयं हरिणाक्षीणां लुठति स्तनमण्डले ।
मुक्तानामप्यव्यवस्थेयं के वयं स्मरकिंकराः ॥ ५ ॥