2025-04-20 14:32:31 by ambuda-bot
This page has not been fully proofread.
१२२
किंचिन्मुद्रितपांसवः शिखिगणैरुत्पक्ष ( रूर्ध्वाक्ष ) मालोकिता
जीर्णावासरुदद्दरिद्रगृहिणीश्वासानिलैर्जर्जराः ।
एते ते निपतन्ति नूतनघनात्प्रावृड्भरानन्दिनो
विच्छायीकृतविप्रयुक्तवनितावस्त्रेन्दवो बिन्दवः ॥ २ ॥
नीत्वोञ्चैर्विक्षिपन्तः कृततुहिनकणासारसङ्गान्परागा-
नामोदानन्दितालीनतितरसुरभीन्भूरिशो दिङ्मुखेषु ।
एते ते कुङ्कुमाङ्कस्तनकलशभरास्फालनादुच्छलन्तः
अमरुशतकम्
पीत्वा सीत्कारिवक्त्रं हरिणशिशुदृशां हैमना वान्ति वाताः ॥ ३ ॥
पीतस्तुषारकिरणो मधुनैव सार्ध-
मन्तः प्रविश्य चषकप्रतिबिम्बवर्ती ।
नानाकरं मनसि मानवतीजनस्य
नूनं बिभेद यदसौ प्रससाद सद्यः ॥ ४ ॥
ललनालोलधम्मिल्लमल्लिकामोदवासिताः ।
वान्ति रात्रौ रतक्लान्तकामिनीसुहृदोऽनिलाः ॥ ५ ॥
वान्ति कलारसुभगाः सप्तच्छदसुगन्धयः ।
वाता नवरतिम्लानवधूसंगममन्थराः ॥ ६ ॥
रामाणां रमणीयवक्त्रशशिनः स्वेदोदबिन्दुप्लुतो
व्यालोलामलकावली प्रचलयं चुम्बनितम्बांशुकम् ।
प्रातर्वाति मधौ विकृष्टविकसद्राजीवराजीरजो-
जालामोदमनोहरो रतिरसग्लानिं हरन्मारुतः ॥ ७ ॥
अङ्गं चन्दनपाण्डु पल्लवमृदुस्ताम्बूलताम्रोऽधरो
धारायन्त्रजलाभिषेककलुषे धौताञ्जने लोचने ।
अन्तःपुष्पसुगन्धिराजिकवरी सर्वाङ्गलनाम्बरं
कान्तानां कमनीयतां विदधते ग्रीष्मेऽपराह्नागमे ॥ ८ ॥
वरमसौ दिवसा न पुनर्निशा ननु निशैव वरं न पुनर्दिनम् ।
उभयमेतदपि व्रजतु क्षयं प्रियतमेन न यत्र समागमः ॥ ९ ॥