This page has not been fully proofread.

१२०
 
ततश्चाभिज्ञाय स्फुरदरुणगण्डस्थलरुचा
मनस्विन्या रूढप्रणयसहसोद्गद्गदगिरा ।
अहो चित्रं चित्रं स्फुटमिति निगद्यानुकलुषं
 
अमरुशतकम्
 
षा ब्रह्मास्त्रं मे शिरसि निहितो वामचरणः ॥ ५ ॥
न जाने संमुखायाते प्रियाणि वदति प्रिये
 
सर्वाण्यङ्गानि किं यान्ति नेत्रतां किमु कर्णताम् ॥ ६ ॥
अनल्पचिन्ताभरमोहनिश्चला विलोक्यमानैव करोति साध्वसम् ।
स्वभावशोभानतिमात्रभूषणा तनुस्तवेयं बत किं न सुन्दरि ॥७॥
इति प्रिये पृच्छति मानविह्वला कथञ्चिदन्तर्धृतबाष्पगद्गदम् ।
न किञ्चिदित्येव जगाद यद्वधूः कियन्न तनैवै तयास्य वर्णितम् ॥८॥
यास्यामीति समुद्यतस्य गदितं विलन्धमाकर्णितं
 
गच्छन् दूरमुपेक्षितो मुहुरसो व्यावृत्य तिष्ठन्नपि ।
तच्छून्ये पुनरास्थितास्मि भवने प्राणास्त एते दृढाः
सख्यस्तिष्ठत जीवितव्यसनिनी दम्भादहं रोदिमि ॥। ९ ॥
जाता नोत्कलिका स्तनौ न लुलितौ गात्रं न रोमाञ्चितं
वक्त्र स्वेद्वणान्वितं न सहसा यावच्छठेनामुना ।
हटेनैव मनो हृतं धृतिमुषा प्राणेश्वरेणाद्य मे
 
तत्केनात्र निरूप्यमाणनिपुणो मानः समाधीयताम् ॥ १० ॥
 
तप्ते महाविरहवह्निशिखावलीभि-
 
रापाण्डर स्तनतटे हृदये प्रियायाः ।
 
मन्मार्गवीक्षणनिवेशित दीनदृष्टे-
 
र्नूनं छमच्छमिति बाष्पकणाः पतन्ति ॥ १९ ॥
सैवाहं प्रमदा नृणामधिगतावेतौ च तौ नूपुरा-
वेषास्माकमवृत्तिरेव सहजव्रीडाधनः स्त्रीजनः ।
इत्थं लजितया स्मृतेरुपगमे मत्वा तनुं संभ्रमा-
 
त्पुंभावः प्रथमं रतिव्यतिकरे मुक्तस्ततो वल्लभः ॥ १२ ॥