2025-04-20 14:32:30 by ambuda-bot
This page has not been fully proofread.
शृङ्गारदीपिकाव्याख्योपेतम्
११७
प्रियकृतपटस्तेयक्रीडाविलम्वनविह्वलां प्रियेण कृता प्रियकृता सैव पटस्ते-
क्रीडा पटस्य वस्त्रस्य स्तेयं चौर्य तदेव क्रीडा विनोदस्तस्य विलम्बनं कालक्षेपस्तेन
विहला व्याकुला तां किमपि करुणाला पामनिर्वाच्यदीनभाषितां तन्वीं
कान्तामुदीक्ष्यावगम्य त्रिभुवनमहाधन्वी त्रैलोक्यैकवीरः मन्मथः कामः सुरता-
हवे संभोगसमरे गते निवृत्ते सति स्कन्धावारे शिबिरे विगलिते च्युते सत्यपि
ससंभ्रमं सत्वरं यथा भवति तथा न्यवर्तत निवृत्तोऽभूत् स्थाने युक्तमिति
संबन्धः । अत्र पटस्तेयक्रीडा संभोगावसाने कृतेति बेदितव्या गते सुरताहवे
इत्युक्तत्वात् । सुरतस्याहवत्वनिरूपणं परस्परोपसर्दस्य विद्यमानत्वात् । अत्र
स्कन्धावारशब्देन स्रक्चन्दनादिप्रसाधनहा रमेखलाद्याभरणलीला विलास-
विभ्रमादिचेष्टास्वरूपोद्दीपनसामुग्री कथ्यते । विगलित इत्यनेन सुरतान्ते
लक्ष्यमाणं सामग्रीशैथिल्यं कथ्यते । न्यवर्तत मन्मथ इत्यनेन पुनः सुरतारम्भो
गम्यते । यथा लोके शूरैः पुरुषः परान् निर्जित्य गलितसन्नहः प्रयातः सन्
पश्चात्परैरंभिभूतानां स्वकीयानामार्तनादं श्रुत्वा तत्प्रशमनाय पुनर्निवर्तते
तद्वदयमपीत्यभिप्रायः । अत्र व्रीडा नाम संचारी भावः । नायिका स्वीया मध्या
स्वाधीनपतिका च । नायकोऽनुकूलः । संभोगशृङ्गारः । चेष्टाकृतं सहास्यं
शृङ्गारि नर्म । हेतुरलंकारः ।
०
( १ ) Ds • भाषिणीं ( २ ) Das Mg • निरूपणं तत्र परस्परो०
( ३ ) D2 यः कश्वन राजा ( ४ ) D3 0 संपातः
( ५ ) D.
परैराहूतः स्वकीयानां ( ६ ) Mg स्वीया मध्या च । किं च स्वाधीन-
पतिका च
कवेर्वाक्यम्--
सालककेन नवपल्लवकोमलेन
पादेन नू पुरवता मदलालसेन ।
यस्ताढ्यते दयितया प्रणयापराधात
सोऽङ्गीकृतो भगवता मकरध्वजेन ॥ १०१ ॥
(c) D. यस्ताडितो दयितया प्रणयप्रकोपात् ।