This page has not been fully proofread.

शृङ्गारदीपिकाव्याख्योपेतम्
 
११३
 
(a ) D3, D5 मनोहरपाटवं (b) 0 हठात् कृतचु॰ (c ) Dg इति
हि चपलो (d ) Ds हृदयगमितः
 
Prostration, tearful conversation, sweet blandishments,
close embraces of the body grown thinner, and passionate
kisses _ thus the assumption of anger bears manifold fruit;
and yet I dare not do it; for my husband is very dear to my
heart; what can I do? (96)
 
चरणपतनं पादप्रणामः सालालापाः सबाष्पभाषितानि दीनवचनानीत्यर्थः ।
मनोहरचोटवः अत्यन्तप्रियोक्तयः । कृशतरतनोः क्षीणगात्रस्य प्रियस्य गाढा-
श्लेषः दृढपरिरम्भः । कर्तृकर्मणोः कृतीति कर्तरि षष्ठी । प्रियेण अंत्र कृत
आश्लेषो इठाद् बलात्कारात् । प्रसभं तु बलात्कारो हठ इत्यमरः । परि-
चुम्बनं चेत्यनेन प्रकारेण मानारम्भः कोपोद्योगो बहुफलः अनेकप्रयोजन-
स्तथापि च नोत्सहे नोद्युक्तास्मि । यतः कान्तः काममत्यर्थे हृदयदयितो
मनोवल्लभः अतो नोत्सहे इति योजनीयम् । अत्रास्मिन् प्रसङ्गे अहं किं
करोमि किमाचरामीति संबन्धः । बहुफलो मानारम्भ इत्यत्र उखीवचना-
नुरोधात् मानारम्भे बहुफलत्वसङ्गीकृतं न स्वत इत्यनुसंधेयम् । तथापि
नोत्सह इत्यनेनात्मनोऽशक्तिः सूचिता । किमत्र करोमीत्यनेन इतःपरं
भवत्या यदुपदिश्यते तत्करोमीत्ययनर्थोऽवगन्तव्यः । नायिका स्वीया मध्या च ।
नायकः शठः ।
विप्रलम्भगृङ्गारः । आत्मोपक्षेपरूपं शृङ्गारि नर्स ।
 
हेतुरलंकारः ।
 
( १ ) DDs
 
( ३ ) D
 
मनोहरपाटव
 
( २ ) D1 Ds Bm, Mg कर्त्रा
 
रोषोद्योगः ( ४ ) Dg प्राणनायकः
 
मुररीकृतं न स्वतन्त्रं ( ६ ) Dg adds अनुकूलो वा
 
नायिको सखीमाह ----
 
( ५ ) D3 बहुफल-
 
कान्ते तल्पमुपागते विगलिता नीवी स्वयं तत्क्षणाव
 
तद्वासः श्लथमेखलागुणघृतं किंचिन्नितम्बे स्थितम् ।
एतावत्सखि वेझ केवलमहं तस्याङ्गसङ्गे पुनः
 
कोऽसौ कास्मिरतं तु किं कथमिति स्वत्पापि मे न स्मृतिः ॥९७॥