2025-04-20 14:32:29 by ambuda-bot
This page has not been fully proofread.
११०
"
"
अमरुशतकम्
makes them so; "What has wiped out the saffron-mark
on your forehead?" "It is rubbed away by the upper
garment. "Well bave you answered all those ( questions);
but tell me, Oh messenger, what have you to say to the
wound on your lower lip ? " (93)
हे दूति तव मुखं केन कारणेन स्विन्नं सस्वेदं जातम् । अयं नायिकायाः
प्रश्नः । दिवाकरकरैः स्त्रिन्नमिति दूत्या उत्तरमुक्तम् । ते तव लोचने दृशौ केन
रागिणी रक्ते । अयं नायिकायाः प्रश्नः । तद्वचनोदितात् तस्य धूर्तस्य
वचनं वाक्यं तस्मादुदितात् उद्भूतात् तस्माद्रोषाद् रक्ते इत्युत्तरम् ।
नीलालकाः केन विलुलिताः व्याकुलिताः । अयं नायिकाप्रश्नः । वायुना
विलुलिताः । इदमुत्तरं दूत्याः । कुङ्कुमं कश्मीरं केन भ्रष्टुं गलितम् । अयं
नायिकाप्रश्नः । उत्तरीयकषणात् संव्यानघर्षणादित्युत्तरं दृत्याः । केन क्लान्तासि
तान्तों भवसि इति प्रश्नः । गत्यागतैर्गमनागमनैः क्लान्तास्मि इत्युत्तरं दूत्याः । हे
दूति तत्सकलं त्वया यदुक्तं तत्सर्वे युक्तमुपपन्नम् । अधरे क्षतस्य व्रणस्य किं
कारणम् । अत्रास्मिन् प्रश्ने वद ब्रूहि उत्तरमिति शेषः । इति संबन्धः । अत्र
वदेत्यनेन त्वया वैदग्ध्यात्सर्वे संभोगचिह्नमपह्नुतमधरे क्षतं कथमपयत
इत्ययमर्थो गम्यते । नायिका स्वीया प्रगल्भा च । नायकः शठः ।
विप्रलम्भाङ्गारः । वाकोवाक्यमलंकारः । उक्तिप्रत्युक्तिमद्वाक्यं वाकोवाक्य-
मिति स्मृतम् ।
( १ ) D3 प्रश्नोत्तररूपं वाक्यं ( २ ) D3 स्वेदजलमयं Mt,Mg
स्वेदयुक्तं ; D,D, खिन्नं खेदयुक्तं ( ३ ) D1, D2,D4,Ds,Bm,
Mt, Mg drop नायिकायाः and दूत्याः here and subsequently
( ४ ) Ds श्रान्ता ( ५ ) D3 कथमपह्नविष्यसि इत्यर्थः सूचितः
(६) D3, D2, D6, Mg drop this definition ; Mt drops
चाकोवाक्यम् and this definition•
नायेको नायिकां सान्त्वयन्नाह--
कठिनहृदये मुन भ्रान्तिं व्यलीककथाश्रयां
पिशुनवचनैर्दुःखं नेतुं न युक्तमिमं जनम् ।