This page has not been fully proofread.

शृङ्गारदीपिकाव्याख्योपेतम्
 
१०९
 
neck high, stands tip-toe, and drying his tear-filled eyes,
looks again with wistful longing in that direction. (92)
 
देशैर्विषयैः सरितां नदीनामुर्वीभृतां पर्वतानां शतैः समूहैः काननैर-
रण्यैश्च अन्तरिता व्यवहिता कान्ता प्रिया यत्नेनाप्युपायेनापि लोचनपथं
दृष्टिमार्गे न याति न प्राप्नोतीति जानन् विदन्नपि पथिकः प्रोषित उद्ग्रीव
उन्नमितकन्धरो भूत्वा चरणाग्ररुद्धवसुधः पादाग्रावष्टब्धभूमिः सन् : साखे
सबाप्पे दृशौ नेत्रे प्रोन्मृज्य परिमृज्य तथैव तथाभूत एव किमपि यत्किञ्चिद्
ध्यायन् चिन्तयन् तामाशां यत्र प्रिया स्थिता तां दिशं मुहुः पुनः पुनः
वीक्षते पश्यतीति संबन्धेः । औत्सुक्यं नाभ संचारी भावः । नायिका स्वीया
मध्या च । नायकोऽनुकूलः । जातिरलंकारः ।
 
( १ ) Mg, Bm drop उपायेनापि ( २ ) D, जानानोऽपि ;
Bm, Mg drop विदन्नपि ( ३ ) D, explains प्रिययोषितो दिशं;
Md व्यक्त एव अभिप्रायः after this ( ४ ) Dj,
D2D,Ds and Mg, Mt drop नायिका स्वीयानुकूलः ।
( ५ ) D, adds किं च प्रोषितभर्तृका
 
नायकमानेतुं प्रेषिताया लक्ष्यमाणसंभोगचिह्नाया दूत्या नायिकायाश्च
प्रश्नोत्तररूपो वाक्यमाला-
 
स्विन्नं केन मुखं दिवाकरकरैस्ते रागिणी लोचने
रोषात्तद्वचनोदिताद् विलुलिता नीलालका वायुना ।
भ्रष्टं कुङ्कुममुत्तरीयकषणात्क्लान्तासि गत्यागतै-
 
युक्तं तत्सकलं किमत्र वद हे दूति क्षतस्याधरे ॥ ९३ ॥
( a ) D,,D2 खिन्नं (b ) D, • वचनोत्थिताद् { c) D,Mg
मृष्टं कुङ्कुम ० ( d ) Mg मे दूति
 
" What brings this perspiration to your face ?" "Ah!
it is the rays of the sun; " " What makes your eyes red ?"
" Anger caused by his words; " " But the dark tresses of
your hair are dis hevelled;" " Sure, it is the wind that