This page has not been fully proofread.

१०८
 
अमरुशतकम्
 
आदृष्टिप्ररात् दृष्टिसंचारावधि प्रियस्य वल्लभस्य पदवीं मार्ग समुद्वीक्ष्य
विलोक्य निर्विण्णया खिन्नया प्रियस्यानागमनेनेति शेषः । अहःपरिणतौ दिना-
वसाने ध्वान्ते तमसि समुत्सर्पति प्रसरति सति पथिषु विश्रान्तेषु विरतेषु सत्सु
गतागतशून्येषु इत्यर्थः । साचा सखेदया पान्थस्त्रिया पान्थस्य प्रोषितस्य स्त्री
वनिता तया गृहं प्रति गृहमुद्दिश्य एकं पदं दत्त्वा विन्यस्य अस्मिन् क्षणे
तत्काल एवागत आयातो मा भूदिति नासीदिति प्रिय इति शेषः । अत्र मा
इति प्रतिषेधे निपातः न माङ् । माङ् भवतीति चेत् माङि लुङित्याशीः प्रसज्येत ।
सा त्वत्र न युक्ता । मा भूदित्यत्र काकुरनुसंधेया । अमन्दवलितग्रीवं
शीघ्रवर्तितकन्धरं यथा भवति तथा पुनर्वीक्षितं पुनर्विलोकितमिति संबन्धः ।
अस्मिन्क्षणे मा भूदागत इत्यनेन पुनर्वीक्षणेन औत्सुक्यातिशयः सूचितः ।
अत्र नायिका स्वीया मध्या च । किं च प्रोषितभर्तृका । 'देशान्तरगते कान्ते
खिन्ना प्रोषितभर्तृका ' इति । नायकोऽनुकूलः । प्रवासविप्रलम्भशृङ्गारः ।
अत्र चेष्टाकृतं संगेच्छारूपं शृङ्गारि नर्म । जातिरलंकारः ।
 
( १ ) D. ० संचारावधिं ( २ ) D2,D,Mg_add मार्गेषु
( ३ ) D,Mg:Mt गत्वा ( ४ ) D,D, नायासीदिति ; Mg
नास्ति किल प्रिय इति ( ५ ) D, D2 drop the definition ;
Mg has यथोक्तं भारतीये before it
 
कवेर्वाक्यम् -
 
देशैरन्तरिता शतैश्च सरितामुर्वीभृतां कानने-
 
र्थत्नेनापि न याति लोचनपथं कान्तेति जानन्नपि ।
उद्ग्रवश्चरणाप्ररुद्धवसुधः प्रोन्सृज्य सास्त्रे दशौ
तामाशां पथिकस्तथैव किमपि ध्यायन्मुहुर्वीक्षते ॥ ९२ ॥
 
( C ) Da
 
• चरणाग्नलन ० (d ) D
 
पुनर्वीक्षते
 
The wanderer knows full well that between him and
his beloved there lie many lands, and hundreds of rivers
and mountains and forests, and that by no effort of his can
he ever get a glimpse of her; nevertheless, he stretches his