This page has not been fully proofread.

शृङ्गारदीपिकाव्याख्योपेतम्
 
१०७
 
निद्रा तथा मुकुलिता निमीलिताक्षी सती' वरतनुः तन्वी अङ्गेन गात्रेण अङ्गं
स्वस्य गात्रं प्रविश्य आसाद्य परीरम्भचतुरे आलिङ्गन कुशले प्रणयिनि प्रिये
न वीबन्धं वस्त्रन्थि सभयव्याकुलकरं सभयो भयेन सहितः व्याकुलस्तरलः
करो यस्मिन् कर्मणि तथोक्तम् । शनैर्मन्दं स्पृशति सति अवलग्नं मध्यं
संकोचग्लपितं अंतराकर्षणकर्षितं विधत्ते करोतीति संबन्धः । अत्र कपट-
निद्रयावलग्नसंकोचेन च नायिकाया विरहासहिष्णुत्वं व्यज्यते । औत्सुक्यं नाम
संचारी भावः । नायिका स्वीया मध्या स्वाधीनपतिका च । नायकोऽनुकूलः ।
संभोगशृङ्गारः । कैशिकीवृत्तेरङ्गं नर्मगर्भः । युक्तिरलंकारः ।
 
( २ ) Da, adds
( ३ ) D, ० दक्षे;
( ५ ) D,,D2,D5
 
( १ ) D2,Da Mg अतथ्या तथ्येव प्रतिभासमाना
तथ्येव प्रतिभासमानकपटनिद्रया मुकुलिताक्षी सतीत्यर्थः
D. • पटौ; Mg • चतुरे ( ४ ) D, प्रियतमे
अम्बराकर्षण०; D, अन्तराकर्षितं ; D अन्तराकरणकर्षितं
 

 
कवेर्वाक्यम्
 
-
 
°
 
आदृष्टिप्रसरात्प्रियस्य पदवीमुद्वीक्ष्य निर्विण्णया
विश्रान्तेषु पथिव्वहःपरिणतौ ध्वान्ते समुत्सर्पति ।
दत्वेकं सशुचा गृहं प्रति पदं पान्यस्त्रियास्मिन्क्षणे
मा भूदागत इत्यमन्दवलितग्रीवं पुनर्वीक्षितम् ॥ ९१ ॥
( a ) D2 निर्विस्मया (c) D4 Mg, Mt गत्वैकं
• वक्षितः ; Mg •वक्ष (क्ष्य) ते
 
(d) Bm
 
As far as the eye could reach, she scanned the path by
which her lover was to come; but as the day declined and
darkness crept apace, and the traffic on the roads ceased,
her heart was filled with despair, and sadly she took but
a single step homewards, and thinking, "Could he not have
come this moment?" she quickly turned her neck and
looked back again! (91)