This page has not been fully proofread.

शृङ्गारदीपिकाव्याख्योपेतम्
 
१०५
 
पाये चिन्त्यमाने सति विचार्यमाणे सतीत्यर्थः । ततो रागे प्रेमिण विवृद्धि-
मतिशयं याते प्राप्ते सति । ततो दूतिकायाः संचारिकाया गिरां वाचां
विस्तरे प्रपञ्चे विसरति सति व्याप्रियमाणे सति यः सरभसदयितालिङ्गना-
नन्दलाभः सत्वरप्रियापरिरम्भाह्लादप्राप्तिर्भवति स तावदूरे आस्तां तिष्ठतु ।
अस्य महिमा वर्णयितुमशक्य इत्यर्थः । किं तु तद्देहोपान्तरथ्याभ्रमणमपि
नायिकाया गृहसमीपवथिपर्यटनमपि परां निर्वृतिं अत्यन्तमानन्दं संतनोति
विदधातीति संबन्धः । अत्र स्मृतिर्नाम संचारी भावः । नायिका परकीया ।
अत्मोपक्षेपरूपं शृङ्गारि नर्म । अतिशयोक्तिरलंकारः ।
 
( १ ) D., Bm, Mt अनुभूतस्मरणात् ( २ ) D, D2, D, स्वयमाह्
( ३ ) D, गते ; D2. D3 drop प्राप्ते ( ४ ) D परिरम्भणाह्लाद०
(५) D drops the sentence ( ६ ) D, drops the sentence
कचेर्वाक्यम्-
 
करकिसलयं धृत्वा धूत्वा विलम्बितमेखला
 
क्षिपति सुमनोमालाशेषं प्रदीपशिखां प्रति ।
स्थगयति मुहुः पत्युत्रे विहस्य समाकुला
 
सुरतविरतौ रम्यं तन्वी पुनः पुनरीक्ष्यते ॥ ८९ ॥
 
( a ) Dg धुत्वा धुत्वा विसर्जति वाससी (d ) D,D,Mg पुनरीक्षते
Tossing about her sprout-like arms now and again,
with the girdle slipping down, she dashes on to the
lamp-flame what remained of her flower-garland; smiling
and bewildered she closes the eyes of her husband again and
again; at the end of their love-dalliance the girl is looked
at (by her husband ) repeatedly. (89)
 
सुरतविरतौ संभोगान्ते विलम्बितमेखला विलग्नरशना पादयोरिति शेषः ।
तन्वी कान्ता समाकुला संभ्रान्ता सती दीपनिर्वापणार्थे करकिसलयं पाणि-
पल्लवं धूत्वा धूत्वा व्याधूय व्याधूय विफलप्रयत्ना सती प्रदीपशिखां प्रति प्रदीप-