This page has not been fully proofread.

१०४
 
अमरुशतकम्
 
परमत्यर्थे मौग्ध्यं मूढतां त्याजिता मोचिताः । मम बाहुलतिके धात्रीकण्ठ-
सुपमातृकण्ठमपास्य विहाय तव कण्ठे आसञ्जिते आसङ्गं प्रापिते । हे
निर्दाक्षिण्य दाक्षिण्यरहित । दाक्षिण्यं नाम परचेतोऽनुवर्तनम् । एषा विशि-
खापि इयं रथ्यापि तव पन्था मार्गो न भवति । एवं सति किं नु करोमि
किं कर्तव्यम् । नु पृच्छायाम् । भवन्तं किमुपालभ इत्यर्थः । अत्र
नायिका साधारणा । सोपालम्भवचनं नर्म । आक्षेपोऽलंकारः ।
 
( ? ) D,, D2, Bm कृतपरिचया; DMg कृतपरिचयातिशया
( २ ) D,,D2,D, स्वगेहे ( ३ ) Da, Bm, Mg नायकं ; D1, D2 drop
the word ( ४ ) D3 वाक्यभणितिमिश्रणात् ( ५ ) D. Bm आसज्जिते ;
D, आसंदिते ( ६ ) D,, D2, Mt परचित्ता ० ( ७ ) D, adds विकल्पे
चेत्यमरः ।
 
नायकोऽनुभूतार्थं स्मरणाज्जातकुतूहल: सन् सहचरमाह-
 
चक्षुः प्रीत्या निषण्णे मनसि परिचयाञ्चिन्त्यमानेऽभ्युपाये
याते रागे विवृद्धिं प्रविसरत गिरां विस्तरे दूतिकायाः ।
आस्तां दूरे स तावत्सरभसदयितालिङ्गनानन्दलाभ-
 
स्तद्द्वेहोपान्तरथ्याभ्रमणमपि परां निर्वृतिं संतनोति ॥ ८८ ॥
(b) T रागे याते वि० ( C ) Oa, S प्रसरति च गिरां (d) T
निवृति
 
When the mind felt attached through love at (first)
sight, when constant thought led to the finding out of
means, when passion grew intense, and negotiations
through a messenger were zealously promoted, let alone the
Joy that comes through the impetuous embraces of the
beloved's body-even the wanderings along the street
skirting her house give the highest bliss ! ( 88 )
 
चक्षुः प्रीत्या नयनप्रीत्या मनसि चित्ते निषण्णे सति निविष्टे सति आसके
सतीत्यर्थः । यतः परिचयादभ्यासान्मुहुर्मुहुः स्मरणादित्यर्थः । अभ्युपाये प्राप्त्यु-