2025-04-20 14:32:27 by ambuda-bot
This page has not been fully proofread.
शृङ्गारदी पिकाव्याख्योपेतम्
१०१
त्वया संप्रति इदानीमकाण्डेऽनवसरे किमिति किमर्थ मानः कोप कृतः
विरचितः प्रियं प्रतीति शेषः । हि यस्मात्कारणात् प्रलयदहनोद्भासुरशिखाः
प्रलयः कल्पान्तस्तरिमन् दहनो वह्निस्तस्यैवोद्भासुराः प्रदीप्ताः शिखाः ज्वाला
येषां ते तथोक्ताः । अङ्गारा उल्मुको एते इमे स्वहस्तेनात्मकरेण समाकृष्टाः
समाक्षिप्ताः स्वस्योपरि अवकीर्णा इत्यर्थः । तत्तस्मात्कारणात् अधुना संप्रति
अरण्यरुदितैर्व्यर्व्यरोदनैरलं पर्याप्तमिति संबन्धः । अत्र स्वहस्ते नाङ्गाराः
समाकृष्टा इत्यनेन भवत्या शात्वैवानर्थः कृत इति मूचितम् । अरण्यरुदितै-
रमित्यनेन प्रियस्य सन्निधौ रुदित्वा किं फलं लभ्यत इत्ययमर्थोऽवगम्यते ।
दैन्यं नाम संचारी भावः । नायिका स्वीया मध्या च । किं च कलहान्त-
रिता । नायकः शठः । मानकृतो विप्रलम्भाङ्गारः । सोपालम्भवचनं नर्म ।
आक्षेपोऽलंकारः ।
( १ )
Mg गमिता ( २ ) D, D2, D3 drop उल्मुका ; Do
उल्कानि ; Mg,Bm उल्मुकानि ; Mt उल्का: ( ३ ) D 1, D2, Dg
वयस्यासंनिधौ
नायक नायिकामुपालभते -
कपोले पत्त्राली करतलनिरोधेन मृदिता
निपीतो निश्वासैरयममृतहृद्योऽधररसः ।
मुहुः कण्ठे लग्नस्तरलयति वाप्पः स्तनतटं
प्रियो मन्युर्जातस्तव निरनुरोधे न तु वयम् ॥ ८५ ॥
(c ) D 19 D2, D, D, Ds, O स्तनतटीं
The pressure of the palm of thy hand, that covers
the cheek, has wiped the ornamental paintings off it; thy
sighs have lapped up the nectar-sweet moisture of thy lips;
the tears which continually choke thy throat. Cause the bosom
to heave thus, Oh inexorable one, thy anger has become thy
beloved, but not I ! (85)
कपोले गण्डस्थले पत्त्राली पत्ररचना करतलर्निरोधेन पाणितलनिपीडनेन
मृदिता मृष्टा । निःश्वासैरमृतहृद्योऽमृतवन्मधुरोऽयमधररसो निपीतं आस्त्रा-