This page has not been fully proofread.

१००
 
अमरुशतकम्
 
शकलेन संव्यानौञ्चलेनाच्छाद्य अवगुण्ठ्य स्फुरत्कण्ठध्वाननिरोधकम्पित-
कुचस्वासोद्गमा सती स्फुरन् प्रादुर्भवन् कण्ठध्वानः कण्ठध्वनिस्तस्य
निरोधो निवारणं सेन कम्पितौ कुचौ श्वासोद्गमश्च यस्याः सा तथोक्ता
रोदिति रोदनं करोतीति मन्ये स्मरामीति संबन्धः । दैन्यं नाम संचारी भावः ।
नायिका स्वीया मुग्धैौ च । किं च प्रोषितभर्तृका । नायकोऽनुकूलः ।
प्रवासविप्रलम्भशृङ्गारः । जातिरलंकारः ।
 
( १ ) D प्रोषितनायकतत्समागमे प्रियाया अवस्थान्तरं कविराह 1
 
( २ ) Dg,Bm प्राङ्गणदीपिकाप्रान्ते चूतद्रुमे मञ्जरीं मालां ( Bm
वल्लरीं) गृहीत्वा । कीदृशीं सर्पत्सान्द्रपरागलंपटरणद्भृङ्गाङ्गनाशोभिनीं अति-
सान्द्रपरागपतनकूजद्भृङ्गाङ्गनाशोभिनीं । ( ३ ) D, सव्याञ्चलेन ;
D2 सव्येनाञ्चलेन ; D drops the explanation ; D explains
चेलाञ्चलेन ( ४ ) D2 मध्या
 
अपराधिना नायकेन भेदं प्रापितां सखी नायिकामुपालभते-
अनालोच्य प्रेम्णः परिणतिमनादृत्य सुहृद-
 
स्त्वयाकाण्डे मानः किमिति तरले संप्रति कृतः ।
समाकृष्टा होते प्रलयदहनोमा सुरशिखाः
 
स्वहस्तेनाङ्गारास्तदलमधुनारण्यरुदितैः ॥ ८४ ॥
 
Why hast thou, Oh restless one, suddenly manifested
such jealous resentment ( against the loved one) without
minding whither this would lead thy love and without any
regard for thy friends? Thou hast really, with thy own
hands, drawn upon thyself these embers whose flames
rise up blazing like that of the fire that consumes the world;
therefore, stop this thy weeping which avails no more
than cries in the wilderness. (84)
 
प्रेम्णः अनुरागस्य तदीयस्येति शेषः । परिणतिं परिपाकमनालोच्यावि-
चार्य सुहृदः सखीरनादृत्यावधीर्य तासां वचनमुल्लङ्घयेत्यर्थः । हे तरले चपले