This page has not been fully proofread.

९८
 
अमरुशतकम्
 
( १ ) Mt बहुवचननिर्देशात् एवं निर्वेदादिषु कविभिर्बहुवचनं प्रयु-
ज्यते । ( २ ) Do adds after this यद्वा अत्र त्वं प्रेयान् इति
एकवचनेन एकरूपप्रेमपात्रत्वं व्यज्यते । प्रियतमा इत्यादिबहुवचनेन एक-
रूपतद्वयतिरेक इति बोध्यम् । ( ३ ) Da प्रेमहानिसहिष्णुत्वं ( ४ ) D,
श्लेषेण ( ५ ) Dg
किमपि अनिर्वाच्यरसान्तरमित्य-
 
श्लेषस्य ; D2
ध्याहार्यम्
 
-
 
कवेर्वाक्यम् -
 
मुग्धे मुग्धतयैव नेतुमखिलं कालं किमारभ्यते
 
मानं धत्स्व धृतिं बधान ऋजुतां दूरे कुरु प्रेयसि ।
सख्यैवं प्रतिबोधिता प्रतिवचस्तामाह भीतानना
 
नीचैः शंस हृदि स्थितो हि ननु मे प्राणेश्वरः श्रोष्यति ॥ ८२ ॥
 
( a ) Ds • मखिलः कालः (b ) Ds दूरीकुरु (d ) Ds ननु
स मे ; 0 हि सखि मे
 
"Oh you innocent child! Why do you think of passing
all your time in simple faith? Show proper pride, take
courage, and give up your frank and open behaviour towards
your lover. " Thus admonished by her friend, her counte-
nance betraying fear (in her heart), she made reply :
Speak softly; for my beloved dwells in my heart and
( perchance) he would hear you. (82)
 
66
 
"
 
हे मुग्धे वाले मुग्धतयैव मूढतयैव अखिलं समस्तं कालं अनेहसं' नेतुम-
तिवाहयितुं किमारभ्यते किमर्थमुद्योगः क्रियते । अन्यथा किं कर्तव्यमिति
पृच्छसि चेद् ब्रवीमि । प्रेयसि प्रियतमे मानं कोपं धत्स्व धारय । धृतिं धैर्य
बधान नह्यस्वावलम्बस्वेत्यर्थः । ऋजुतामार्जवं दूरे विप्रकृष्टे कुरु विधेहि
वक्रतां भजस्वेत्यर्यः । सा एवमनेनैव प्रकारेण सख्या वयस्यया प्रतिबोधिता
उपदिष्टा भूत्वा भीतानना त्रस्तमुखी सती तां सखीं प्रतिवचः उत्तरमाह
ब्रवीति स्म । किमिति । हे सखि नीचैरल्पध्वनि यथा भवति तथा शंख
कथय हि यस्मात्कारणात् मे मम हृदि हृदये स्थितः प्राणेश्वरः श्रोष्यति