This page has not been fully proofread.

९४
 
(b) D3,Ds दैन्यं दत्तमशेषतः ; ० परजने
 
(c ) 0
 
S भजसि स ; Dg भिद्यते (d) OS, T विभक्तं त्वया
 
अमरुशतकम्
 
परिनिर्वृतिं
 
9
 
Tears uninterruptedly flowing, she has given to her kith
and kin; anxious thoughts she has passed on to her elders;
on all her attendants she has bestowed her distress, and
has put fever into the hearts of her friends; to-day or on
the morrow, she will enjoy the highest bliss ; her sighs afflict
her severely. So be at ease; for has she not distributed
the grief that was caused by separation ? (78)
 
अच्छिन्नं संततं नयनाम्बु अश्रु बन्धुषु स्वजनेषु कृतमर्पितम् । चिन्ता
विचारो गुरुत्रु जनन्यादिष्वर्पिता न्यस्ता । दैन्यं दीनत्वमशेषतः परिजने
सर्वस्मिन् परिचारकवर्गे । सप्तम्यर्थे तसिः । दैत्तं निहितम् । तापः संज्वरः
सखीषु वयस्यास्वाहितां निक्षिप्तः । एवमनेन प्रकारेण तया विप्रयोगजनितं
विरहोत्पादितं दुःखं विभक्तं विभागं प्रापितम् । सा यतः श्वासैः श्वसितैः
परमत्यर्थं खिद्यते खिन्ना भवति । तस्मादद्यास्मिन् दिवसे श्वः परस्मिन् दिवसे
वा परनिर्वृतिमत्यन्तसौख्यं भजति प्राप्नोति । अतः विषन्धो निश्चिन्तो
भवेति संबन्धः । परनिर्वृतिं भजतीत्यनेन मरणं सूच्यते । विस्रब्धो भवेत्यनेनो-
पालम्भो गम्यते । अत्र मूर्च्छा नाम दशाविशेषः । नायिका परकीया कर्त्यां च ।
अयोगविप्रलम्भशृङ्गारः । अत्र सोपालम्भवचनं नर्म । आक्षेपोऽलंकारः ।
 
( १ ) Mg परिकरवर्गे; Bm परिचारवंशे ; Mt परिचारकजने
( २ ) D,,D, न्यस्तं निहितमित्यर्थः । ; Dg विभागीकृतं ( ३ ) D. भिद्यते
भिन्ना भवति ( ४ ) D1, Ds, Mg निश्चितो ( ५ ) Mg अवगम्यते
( ६ ) D3 drops कन्या च ( ७ ) D, Dg सोपालम्भवचननर्म
 
कवेर्वाक्यम् - नायिका सखीमाह-
 
स्फुटतु हृदयं कामः कामं करोतु कृशां तनुं
 
न सखि चटुलप्रेम्णा कार्य पुनर्दयितेन मे ।
 
इति सरभसं मानाटोपादुदीर्य वचस्तथा
 
रमणपदवी सारङ्गाक्ष्या सशङ्कितमीक्षिता ॥ ७९ ॥