2025-04-20 14:32:26 by ambuda-bot
This page has not been fully proofread.
९२
अमरुशतकम्
When the lover was somehow persuaded to come back
he was confused in his answers ; but she, who had wasted.
away in separation, feigned as if she had not heard him ;
fearing, however, that his words might have reached the ears
of her intolerant friends, she hurriedly allowed her restless
eyes to look around, and then finding that the apartment
was empty, she again heaved sighs of relief ! (76)
कथमपि कथंचित् कृतप्रत्यापत्तौ कृता प्रत्यापत्तिर्यस्य तथोक्तः, तम्मिन् ।
अत्र कोपान्निष्कासितस्य पुनःप्राप्तिः प्रत्यापचिः । प्रिये दयिते स्खलितोत्तरे
स्खलितं विपर्यस्तमुत्तरं प्रतिवाक्यं यस्य स तथोक्तः तस्मिन् । कृतगोत्रस्खलन
इत्यर्थः । विरहकृशया वियोगक्षामया नायिकया व्याजं मिषं कृत्वा विधाय
किमपि व्याजीकृत्य इत्यर्थः । अश्रुतमश्रवणं प्रकल्पितं कृतमश्रवणमभिनीत-
मित्यर्थः । पुनरसहनसखी श्रोत्रप्राप्तिं असहना असहिष्णवस्ता एव सख्यस्तासां
श्रोत्रं श्रवणं तस्य प्राप्तिस्तां विशङ्कय शङ्कित्वा ससंभ्रमं सत्वरं यथा
भवति तथा विवलितदृशा पार्श्वव्यापारितदृष्ट्या तया गेहे शून्ये विविक्ते सति
निर्गतसखीजन इत्यर्थः । भूयः पुनः समुच्छ्वसितमुच्छ्वासः कृतः संतुष्ट-
मित्यर्थः । इति संबन्ध: । विरहकृशया व्याजं कृत्वा अश्रुतं प्रकल्पितमित्य-
नेन पुनर्विरहभीरुत्वं सूचितम् । सखीनामसहमानत्त्वकथनेन नायकापराधे
नायिकया सोढेsपि तासां तत्परिभवासहत्वेन तस्यां सौहार्दातिशयः सूचितः ।
शङ्का नाम संचारिभाव: । नायिका स्वीया मध्या च । नायको धृष्टः ।
मानानन्तरं संभोगशृङ्गारः । अत्र नर्गगर्भः । जातिरलंकारः ।
( १ ) Mt कृता प्रत्यासक्तिः पुनरागमनं येन स तथोक्तः ।
( २ ) D, तत्र निष्कासितस्य पुनरावर्तनं प्रत्यापत्ति: । ( ३ ) Mg प्रत्या-
सत्तिः ; Mt प्रत्यासक्ति: ( ४ ) D2 अयोगक्षामया : D,D, अयोग-
क्षामायाः नायिकायाः ( ५ ) D3 परिवर्तितदृष्टया । विगलितदृशा इति
पाटे सादृष्टयेत्यर्थः ।
नायिका सखीमाह -
---
पश्याश्लेषविशीर्णचन्दनरजःपुञ्जप्रकर्षादियं
शय्या सम्प्रति कोमलाङ्गि परुषेत्यारोप्य मां वक्षसि ।