2025-04-20 14:32:25 by ambuda-bot
This page has not been fully proofread.
शृङ्गारदी पिकाव्याख्योपेतम्
९१
the vehemence of her anger abated on such words of her
entourage, her welling tears could neither be held in check,
nor could they start flowing further.
(75)
हे कोपने कोशीले सुचिरं दीर्घकालं पादासक्ते चरणलग्ने प्रणत इत्यर्थः ।
इहास्मिन्कान्ते प्रिये ते तव वामता वक्रता नैव नास्त्येव । मन्दारम्भे शान्तो-
पक्रमे । अत्रारम्भो नाम मय्यपराधः कुत इति समर्थनोद्योगः । प्रणयिनि
प्रेमवति जनेऽपराधः कः । अयमपराधोऽपि अपराधत्वेन न गणनीय
इत्यथे । इत्थं एवं परिजनगिरा सख्यादिवचनेन तस्या नायिकायाः कोपवेगे
रोषोद्रेके प्रशान्ते क्षीणे सति तदनु तदनन्तरं सहसा शीघ्रं बाप्पोद्भेदैर्नयन-
जलोद्गमैर्न स्थितं नोषितं न प्रवृत्तं नोद्गतॆमिति संबन्धः । बाष्पोद्भेदैर्न स्थित-
मित्यनेन परिजनानुनयात् कोपस्य वेगे शान्ते प्रसादोन्मुखत्वं सूचितम् ।
बाप्पोद्भेदस्य प्रसादसूचकत्वात् । न प्रवृत्तमित्यनेन प्रियापराधस्य प्रत्यक्षेण
दृष्टत्वात् कोपस्तस्याः सहसा न शान्त इत्ययमर्थः सूचितः । अत्र नायिका
स्त्रीया मध्याप्रगल्भयोरन्यतरा । नायकः शठः । विप्रलम्भशृङ्गारः । जाति-
रलंकारः ।
;
( १ ) D1, D2, D2, Ds, Bm कैव ( २ ) Mt समर्थोऽभियोगः
D2 प्रणयिनि समर्थनोद्योग : ; D, समर्थयति ( ३ ) D पतिजनेऽपराधः
कः ; De, adds आगोऽपि ; Bm, Mg आगो नाम ( ४ ) D, नान्तर्हितं
( ५ ) D, न चलितं ; D4, Mt न प्रस्थितम् ; D, Ds न प्रवर्तितम्
कवेर्वाक्यम्-
कथमपि कृतप्रत्यापत्तौ प्रिये स्खलितोत्तरे
विरहकृरीया कृत्वा व्याजं प्रकल्पितमश्रुतम् ।
असहनसखी श्रोत्रप्राप्तिं विशङ्कय ससंभ्रमं
विवलितदृशा शून्ये गेहे समुच्छ्वसितं पुनः ॥ ७६ ॥
( a ) Dş कृतप्रत्याख्याने ; Mg, S कृतप्रत्यासत्तौ ; Mt, Oa कृत-
(c) Ds असहनसखीश्रोत्रप्राप्तिप्रमादस०
प्रत्यासक्तौ
विगलितदृशा ; D2 शून्यागारे
( d ) D,