2025-04-20 14:32:24 by ambuda-bot
This page has not been fully proofread.
शृङ्गारदी पिकाव्याख्येोपेतम्
८९
arms, when thou heardst the clinking of the jewels of
another's girdle - this to whom shall I report, when my
friend, tipsy with the poison of thy butter-soaked and
honey-sweet talk, does not at all attend to it ? (73)
हे शठ धूर्त अन्यस्या इतरनायिकायाः काञ्चीमणिरणितं मेखलारत्नसि-
ञ्जितमाकर्ण्य आश्लिष्यन्नेव आलिङ्गन्नेव सहसा शीघ्रं प्रशिथिलभुजग्रन्थिः
विश्लथबाहुबन्धनः अभवः औसीरिति यत् तदेतत्सानं काचक्षे कुत्र ब्रवीमि ।
यतो घृतमधुमयत्यद्बहुवचोविषेण घृतमधुमयं सर्पिः क्षौद्ररूपं त्वद्बहुवचस्तव
भूरि वचनं घृतमधुमयं च त्वद्बहुवचश्च तदेव विषं तेनाघूर्णन्ती भ्राम्यन्ती
मे सखी किमपि न गणयति न विचारयति न विश्वसितीत्यर्थः । वचनमिति
शेषः । इति संबन्धः । अत्र नायकचचसां घृतमधुमयत्वकथनेन तदानीं
हितत्वं पश्चादहितत्वं च गम्यते । यतो घृतमधुमिश्रिते विपाके विषत्वमापद्यते ।
यथोक्तं वाग्भटेन - 'मधुसर्पिर्वसातैलपानीयानि द्विशास्त्रिशः । एकल वा
समांशानि विरुध्यन्ते परस्परम् ॥ तदेतत्क्काचक्ष इत्यनेन सखी त्वया वञ्चिता
कस्याग्रतो मम दुःखं कथयामीति स्वनिर्वेदः सूचितः । अत्र नायिका स्वीया
प्रगल्भा च । नायकः शठः । विप्रलम्भगृङ्गारः । अत्र सोपालम्भवचनं नर्म ।
आक्षेपोऽलंकारः ।
( १ ) D3
मेखलाशिञ्जितं ;
Mt
मेखलाकिङ्किणीसिञ्जितं
( २ ) D,, D2, D, अभवत् ( ३ ) D, D2, Dg आसीदिति यत्
शठस्यैतत् शाठ्यं क्व तदाचक्षे ( ४ ) Mg • त्कार्ये ( ५ ) Mg वाहटेन ;
Bm वाइटे; Mt वाग्देवेन ( ६ ) D1, D2 drop the sentences
कवेर्वाक्यम्-
-
शून्यं वासगृहं विलोक्य शयनादुत्थाय किंचिच्छनै-
निद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखम् ।
विस्रब्धं परिचुम्ब्य जात पुलकामालोक्य गण्डस्थलीं
लज्जानम्रमुखी प्रियेण हसता वालाभवच्चुम्बिता ॥ ७४ ॥
(c) D,, D2, D, गण्डस्थलिं; Oa परिरभ्य जात (d ) D,
हसिता; Do सहसा ; Ds, S, T, UBm, Mt बाला चिरं चुम्बिता