This page has not been fully proofread.

८६
 
अमरुशतकम्
 
तस्या दैन्यं विदित्वापि नानुकूल्यं गत इति सूचितम् । अंशुकपल्लवे विधृत
इत्यनेन याञ्चा निष्फलीकृतेति ज्ञायते । निर्व्याजमालिङ्गित इत्यनेनांशुकपल्लव-
मालावलम्बनेन निवारितुं न शक्यत इति ज्ञायते । पूर्व प्राणपरिग्रहो
मुक्तस्ततो वल्लभ इत्यनेन तस्या रागातिशयः सूचितः । दैन्यं नाम संचारी
भावः । नायिका स्वीया मध्या च । नायकः शठः । विप्रलम्भशुङ्गारः ।
अत्र चेष्टाकृतं संगेच्छारूपं गृङ्गारि नर्म । आक्षेपोऽलंकारः ।
 
( १ ) Bm, Mt जिगामिषुं ( २ ) D, Mg, Bm, Mt अञ्जलिं
हस्तं बद्ध्वा ( ३ ) Mg ज्ञापयति ।
 
कक्यम् -
 
लालक्ष्म ललाटपट्टमभितः केयूरमुद्रा गले
 
वक्त्रे कज्जलकालिमा नयनयोस्ताम्बूलरागोऽपरः ।
दृष्ट्वा कोपविधायि मण्डनमिदं प्रातश्चिरं प्रेयसो
 
लीलातामरसोदरे मृगदृशः श्वासाः समाप्तिं गताः ॥ ७१ ॥
 
A mark of lac-dye on both sides of the forehead, the
impress of the arm-band on the neck, the dark spots of
collyrium on the face, the colour of the betel standing pre-
eminent on the eyes-after the gazelle-eyed one, in the early
morning, had long looked at such anger-exciting ornaments
of the lover, her sighs got smothered in the chalice of the
lotus which she gaily sported in her hand. (71)
 
ललाटपट्टमभितः भालफलकप्रान्तेषु । अभितः परित इत्यादिना द्वितीया ।
लाक्षालक्ष्म अलक्तकलाञ्छनम् । गले कण्ठे केमूरमुद्राङ्गदाङ्कनम् । वक्ले
मुखे कज्जलकालिमा अञ्जनमालिन्यं नयनयोस्ताम्बूलरागः ताम्बूलरक्तिमा
अपर इतरो रागश्च निद्राच्छेदजनित इत्यर्थः । प्रातरुषसि प्रेयसः प्रियतमस्य
कोपविधायि कोपकारि इदं पूर्वोक्तं मण्डनं सम्भोग चिह्नरूपमलंकार चिरं
दृष्ट्वा स्थिताया मृगदृशो हरिणक्षणायाः श्वासाः । श्वासशब्देनात्र रोषातिशय-
जनिताः श्वासोश्वासाः कथ्यन्ते । लीलातामरसोदरे लीलाकमलगर्भे समाप्तिमव-