This page has not been fully proofread.

८४
 
अमरुशतकम्
 
He shook his head when by the dance of her eye-brow
she suggested the direction of (the house of) her rival, and
marking the attitude of) those who were witnesses to this
scene, he bowed low and stood aside perplexed; when her
cheeks glowed with the flush of anger, his glance was bent
on her feet; ( thus ) even in the presence of the elders, the
couple did not give up their attitude befitting the
occasion. (69)
 
नायिकाया लोलभ्रूलतया कम्पमानभ्रूवल्ल्या साधनेन विपक्षदिगुपन्यासे
प्रतिकूलरमणीस्थाननिर्देशे सति नायकेन शिरो विधूतम् । ततस्तया तद्न्तान्त-
विदीक्षणे स चासौ वृत्तान्तो व्यापारः तं वेत्ति इति तद्वृत्तान्तवित्
सख्यादिस्तस्येक्षणमवलोकनं तस्मिन् कृते सति ततो नायकः कृतनमस्कारः
कृतनमस्कृतिर्भूत्वा विलक्षः किंकर्तव्यतामूढः सन् स्थितस्तस्थौ । ततस्तस्या
मुखे ईषत्ताम्रकपोलका न्तिनि अल्पारुणगण्डद्युतौ सति ततो नायकः दृष्टया
दृशा पादयोः नतः नम्रः । एवं द्वाभ्यां स्त्रीपुरुषाभ्यां गुरुसन्निधौ गुरुजन-
समक्षेऽपि कालोचितः अवसरोचितो विधिः कृत्यं नोत्सृष्टः न त्यक्तः ।
निर्वर्तित इत्यर्थः । इति संबन्धः । अत्र विपक्षदिगुपन्यास इत्यनेन त्वं तस्या
गृहं गत इत्ययमर्थः सूचितः । शिरो विधूतमित्यनेन तद्गृहं प्रति न गतोऽस्मीति
ज्ञापितं भवति । तद्वृत्तान्तविदीक्षण इत्यनेन अनया सख्या तवापराधो दृष्ट
इति सूचितम् । कृतनमस्कारो विलक्षः स्थित इत्यनेने मद्वृत्तान्तोऽनया
साक्षिपुरःसरं ज्ञात इति परं कथमपलापयितुं शक्यमित्यपराधोऽङ्गीकृत इति
सूचितम् । ईषत्ताम्रकपोलकान्तिनि मुखे इत्यनेने कोपः सूचितः । दृष्टया
नतः पादयोरित्यनेन अहमपराधी क्षमस्वेति सांत्वनं सूचितम् । गुरुसंनिधावपि
कालोचितो विधिर्नोत्सृष्ट इत्यनेन तदानीमनुचितोऽपि ईम्यमानश्च तत्प्रशमन-
प्रकारश्च स्ववैदग्ध्यान्निगूढं निर्वर्तित इत्यभिप्रायः । अत्र नायिका स्वीयाँ
प्रगल्भा च । नायकः शठः । विप्रलम्भशृङ्गारः अत्र चेष्टा कृतमर्ष्या-
 
कोधप्रायं नर्म । जातिरलंकारः ।
 
( १ ) D, नायिकया पूर्वे निवारितः स पुनः प्रतिकूलनायिकागृहगमन-
समुल्लंघिततदाज्ञस्य तं प्रति कुपिताया नायिकायाश्च व्यापारं कविराह । Mt