This page has not been fully proofread.

शृङ्गारदीपिकाव्याख्योपेतम्
 
८३
 
tarries, he who is the lord of my life, so dear to my heart."
How is it, Oh young woman, that thou art not afraid
though thou art alone? "The God of love, with his
 
feathered arrows, is my companion." ( 68 ).
 
हे करभो करभाविव ऊरू यस्याः सा करभोरुः तस्याः संबुद्धिः ।
ऊरूत्तरपदादौपम्य इति ऊङ् प्रत्ययः । मणिबन्धादाकनिष्ठं करस्य करभो
बहिरित्यमरः । घने निविडतमसीति शेषः । निशीथेऽर्धरात्रे व कुत्र प्रस्थितासि
प्रयातासि । एवं सख्या पृष्टा नायिका तां प्रत्याह- मे मनः प्रियः मनसो
हृदयस्य प्रियः अभीष्टः प्राणेश्वरः प्राणनाथो यत्र यस्मिन्प्रदेशे वसति तिष्ठति
तत्र गच्छामीति शेषः । मनःप्रियः प्राणेश्वर इत्यर्थः । अर्थपौनरुक्त्यमास्था-
तिशयेन । ततः सखी तामाह- हे बाले वत्से, एकाकिनी असहाया त्वं कथं
केन प्रकारेण न विभेषि न त्रससि वद ब्रूहि । ततः सा सखीमाह - पुङ्खितशरः
संहितबाणो मदनः कामः सहायः सहचरः अस्ति ननु विद्यते खलु । व्यक्त
एवाभिप्रायः । नायिका परकीया । किंचाभिसारिका । यथा भारतीये - हित्वा
लज्जां समाकृष्टा मदनेन मदेन च । अभिसारयते कान्तं सा भवेदभिसारिका ॥
अत्र सहास्यं शृङ्गारि नर्म । हेतुरलंकारः ।
 
( १ ) D,, D2,D, करभः करवहिः प्रदेशः स इव ऊरू यस्याः सा ।
( २ ) D, मनः प्रियः प्राणेश्वर इत्यर्थपौनरुक्त्यं आस्थातिशयेन
 
( अयं श्लोकोऽत्र प्रक्षिप्त इति बहवः । - रामानन्द० )
 
नायिकया पूर्वे निवारितस्य प्रतिकूलनायिकागृहागतस्याप्युल्लंघिततदाज्ञस्य
नायकस्य चरितं प्रतिकुपिताया नायिकायाश्च व्यापारं कविराह-
 
लोलभ्रूलतया विपक्ष दिगुपन्यासे विधूतं शिर-
 
स्तद्वृत्तान्त चिदीक्षणे कृतनमस्कारो विलक्षः स्थितः ।
 
ईपत्ताम्रक पोलकान्तिनि मुखे दृष्ट्या नतः पादयो-
 
रुत्सृष्टो गुरुसन्निधावपि विधिर्द्वाभ्यां न कालोचितः ॥ ६९ ॥
 
( a ) Dg • न्यासेऽवधूतं
कोपात्ताम्रविलोलकान्तिनि ; 0 दृष्ट्वा
 
(b ) Ds • निरीक्षणे (c) Ds