This page has not been fully proofread.

८२
 
अमरुशतकम्
 
covering her face, whose orbed cheeks were radiant with
smiles, with the skirt of her garment, while the clustering
pendants in her ears gently dangled, the slender one shook
her head. ( 67 ).
 
पुष्पोद्भेदं रजःप्रादुर्भावमवाप्य प्राप्य केलिशयनाद्दूरस्थया क्रीडातल्पं
विहाय विप्रकृष्टया । ल्यब्लोपे पञ्चमी । स्फुरिताधरेण स्पन्दिताघरेण कान्तेन
प्रियेण भ्रूसंज्ञया साधनेन निभृतं निगूढं चुम्बने याचिते प्रार्थिते सति स्मित-
पूर्णगण्डफलकं मन्दहासमरितकपोलतलमाननं चैलाञ्चलेन अंशुकपल्लवेनाच्छाद्य
पिधाय मन्दान्दोलितकुण्डलस्तबकया मन्दं शनैः आन्दोलिते आलोलिते कुण्डले
कर्णवेष्टने एव स्तबकौ गुच्छौ यस्याः सा तथोक्ता । तन्व्या कान्तया
शिरो विर्धूतं तिर्यग्वलितमिति संबन्धः । शिरो विधूतमित्यनेन प्रतिषेधः सूचितः ।
औत्सुक्यं नाम संचारी भावः । नायिका स्वीया मध्याप्रगल्भयोरन्यतरा ।
स्वाघीनपतिका च । नायकोऽनुकूलः । संभोगशृङ्गारः । अत्र चेष्टाकृतं
संगेच्छारूपं शृङ्गारि नर्म । सूक्ष्मोऽलंकारः । यथोक्तं काव्यादर्शे -' इङ्गिताकार-
लक्ष्योऽर्थः सौक्ष्म्यात्सूक्ष्म इति स्मृतः' इति ।
 
( १ ) Da स्पन्दितोष्ठेन ( २ ) D,D3, D, Bm दरहास० ; Mg
मन्दहासपूरित० ( ३ ) D1, D2, De चैलाञ्चलेन ( ४ ) D. कनकवेष्ट
( ५ ) D,,D,D, शिरोऽवधूतं ( ६ ) D, तिर्यक् चलितं ; D तिर्यक्कृतम् ०
( ७ ) D, D, D, शिरोऽवधूतं
 
सखी नायिकामाह-
 
क प्रस्थितासि करभोरु घने निशीथे
 
प्राणेश्वरो वसति यत्र मनःप्रियो मे ।
एकाकिनी वद कथं न बिभेषि वाले
 
नन्वस्ति पुङ्खितशरो मदनः सहायः ॥ ६८ ॥
 
(b ) Dg प्राणप्रियो... जनः प्रियो मे
 
"Whither hurriest thou, Oh fair one (lit. trunk-thighed
 
66
 
one) at this murky midnight ?" • There, where my love