This page has not been fully proofread.

८०
 
अमरुशतकम्
 
निधुवनं प्रथयति ख्यापयतेि इति संबन्धः । अत्र क्वचित्ताम्बूलात इत्यनेन
माजीरकरणं सूचितम् । यथोक्तं रतिरहस्ये - प्रसारिते पाणिपादे शय्यास्पृशि
मुखोरसि । उन्नत्तायां स्त्रियाः कट्यां मार्जरकरणं विदुरिति । क्वचिदगरुपङ्का-
कमलिन इत्यनेन करिपदबन्धविशेषः सूच्यते । यथोक्तं रतिरहस्ये -:
-भूग-
तस्तनभुजास्यमस्तकामुन्नतस्फिजमधोमुखीं स्त्रियम् । क्रामति स्वकरगृह्यमे-
हने वल्लभे कॅरिपदं तदुच्यते ॥ इति । क्वचिच्चूर्णोद्गारीत्यनेन धेनुकं नाम
करणमुच्यत । यथोक्तं – न्यस्तहस्तयुगला भुवस्थले योषिदेति कटिरूढ-
बल्लभा । अग्रतो यदि शनैरधोमुखा धेनुकं वृषवदुन्नते प्रियै ॥ इति 1 क्वचि-
दपि च सालक्तकपदः इत्यनेन पुरुषायितं सूच्यते । तत्स्पष्टमेव । वलीभङ्गे-
रित्यनेन च अलकपतितैः शीर्णकुसुमैरित्यनेन च रर्युपमर्दातिशयः सूच्यते' ।
जातिरलंकारः ।
 
1
 
( १ ) Da explains वीटिकारसेन ( २ ) D, explains कृष्णा-
गरुकर्दमचिह्नेन मलीमसः ( ३ ) D explains लाक्षासहितपदमुद्रायुक्तः
( ४ ) D आस्तीर्णवस्त्रं ( ५ ) D, D2, D बहुप्रकारावस्थं रतं रमणं
प्रथयति ; D, बहुप्रकारं रतं प्रथयति ; Mt_बहुप्रकारान्तरावस्थं रतं
सुरतं प्रथयति ( ६ ) D, D2, D,, Bm, Mt ऐभो ( ऐभ्यो D.) नाम बन्ध ०
;
Mg इभो नाम बन्ध ० ; D करिपदाख्यो बन्ध • ( ७ ) D1, D2, Bm,
Mg करिपदेभमुच्यते ; D करिवदैभमुच्यते ( ८ )
प्रेमार्द्रातिशयः ( ९ ) D, adds after this :-
नायिका स्वीया प्रौढा
त्र । नायकोऽनुकूलः । संभोगशृङ्गारः । सुहृन्नर्म ( ? ) जातिरलंकारः ।
 
नायकेन प्रलोभिता नायिका सखीमाह
 
-
 
अहं तेनाहूता किमपि कथयामीति विजने
समीपे चासीना सरलहृदयत्वादवहिता ।
ततः कर्णोपान्ते किमपि वदताघ्राय वदनं
 
D, रत्यां
 
गृहीत्वा धम्मिलं मम सखि निपीतोऽधररसः ॥ ६६ ॥
 
( a ) Dg तेनाह्वाता ( b ) D,D, सरसहृ' ; Bm तरलहू •