This page has not been fully proofread.

शृङ्गारदीपिकाव्याख्योपेतम्
 
७७
 
पूर्वे म्लानं तान्तं पाण्डु धूसरं कृशं क्षामं विलासविधुरं विभ्रमशून्यं लम्बालकं
खस्तकुन्तलं अलसं जडं ततः प्रोषिते देशान्तरगते मयि प्राप्ते आगते भूयः
पुनः तत्क्षणजातकान्तिमधुरं तत्कालसंभूतशोभासुभगं च । ततः साटोपं
सगर्व रतिकेलिदत्तरभसं रतिक्रीडाविहितसभ्रमं किमपि रम्यं अनिर्वाच्यसौन्दर्य
च सुतनोस्तच्या मुखं मया आदरात् आस्थातिशयात् पीतमास्वादितमिति
यत् तदिदं केन कर्मणा विस्मार्यते तिरोधीयते इति संबन्धः । अत्र नायिका
स्वीया मध्या च । नायकोऽनुकूलैः । जातिरलंकारः ।
 
( १ ) D, सद्यः संजातशोभासुभगं ( २ ) Mg रतिक्रीडोपहितसंभ्रमं
( ३ ) D कोमलाङ्गयाः
( ४ ) T मुग्धा ( ५ ) Mt adds after
 
this संभोगशृङ्गारः
नायकोक्तिः -
 
आयस्ता कलहं पुरेव कुरुते न स्रंसने वाससो
 
भुग्नभूरतिखण्ड्यमानमधरं धत्ते न केशग्रहे ।
अङ्गान्यर्पयति स्वयं भवति नो वामा हठालिङ्गने
 
तन्व्या शिक्षित एष संप्रति पुनः कोपप्रकारोऽपरः ॥ ६३ ॥
 
( a ) D2,D,, Mg कलहं पुरैव (b) T
संप्रति पुरः
 
1
 
मधरं दत्ते (d, D23 Ds
 
Wearied, she does not oppose as formerly the loosening
of her garment, nor as before does she, when seized by the
hair, break the arch of her brow and bite her lip severely ;
she willingly offers her limbs and does not repulse a forcible
embrace; O! the fair one seems now to have learnt quite
a different mode of ( showing ) anger ! (63 )
 
आयस्ता आयासं प्राप्ता ईर्ष्याकोपेनेति शेषः । पुरे पूर्वमिव वाससो
वस्त्रस्य संसने मोचने कलहं विवादं न कुरुते न विधत्ते । किं च केशग्रह
केशकर्षणे पुरेव भुग्नभ्रूः भ्रूभङ्गवती सती अतिखण्ड्यमानमत्यन्तं दश्यमान-
मधरं दन्तच्छदं न धत्ते न वहति । किं च हटालिङ्गने प्रसभाले पैरेव