This page has not been fully proofread.

७६
 
अमरुशतकम्
 
बान्धवजनस्य सुहृज्जनस्य अज्ञातपीडागमे अज्ञातः अनवगतः पीडागमो
दुःखप्राप्तिः यया सा तथोक्ता तस्याः संबुद्धि: । अज्ञातबान्धवजनपीडागमे
इत्यर्थः । हे दूति संदेशहरे इतः अस्मात्प्रदेशात् वापीं दीर्घिकां स्नातुं
जलावगाहनं कर्तुं गतासि यातासि । अधमस्य निकृष्टस्य तस्य नायकस्या-
न्तिकं पुनः समीपं तु न गतासि इति संबन्ध: । अत्र वापीस्नानचिह्नकथन-
व्याजेन संभोगचिह्नकथनाच्च नायकस्याधमत्वकथनाच्च तदन्तिकमेव रेन्तुं
गतासीत्ययमर्थो व्यज्यते । अत्र नायिका स्वीया प्रगल्भा च । नायकः शठः ।
क्रोधप्रायं नर्म । समाधिरलंकारः । यथोक्तं काव्यादर्शे - युगपत्नैकधर्माणा-
मभ्यासश्च मतो यथेति ॥
 
( १ ) D. वक्ष्यमाण ; Ds drops this introductory sentence
( २ ) D, कार्त्स्न्येन गलितविलेपनं ( ३ ) D. तन्वी कोमला इयं etc.
( ४ ) D, वरं गन्तुं ; Mg परं त्वं ( ५ ) Mg स्वीया मध्या प्रगल्मा च
नायकोक्तिः-
 
म्लानं पाण्डु कृशं विलासविधुरं लम्बालकं चालसं
भूयस्तत्क्षणजातकान्तिमधुरं प्राप्ते मयि प्रोषिते ।
 
साटोपं रतिकेलिदत्तरभसं रम्यं किमप्यादरात्
पीतं यत्सुतनोर्मया मुखमिदं तत्केन विस्मार्यते ॥
 
६२ ॥
 
(b) D, सरसं ; O, Oa, U, S, T • कान्ति मधुरं (d) Ds
यत्पीतं सुतनो • . वक्तुं न तत्पार्यते
 
Withered, pale, weak, bereft of grace, and with the
tresses of its hair hanging loose, the languid face at
once brightened up and looked sweet when I returned
from abroad; and what can make me forget the kisses I
lovingly snatched from my beloved's mouth, which looked
so proud, so bewildered during the time of love-dalliance,
and forsooth so charming ? ( 62 ).