2025-04-20 14:32:22 by ambuda-bot
This page has not been fully proofread.
शृङ्गारदीपिकाव्याख्योपेतम्
७३
( १ ) Mg adds आपादकेशं व्यक्तनिनिडरोमाञ्चं भवति । विस्पष्ट-
नीरन्ध्ररोमाञ्चा तनुरियं स्वयमेव हठादनुरक्ता भवतीत्यर्थः । ( २ ) D,D2,
Mg add समेत्य after आगत्य ( ३ ) D, वोधिता ( ४ ) D2, Do
मुग्धा च ।
अत्यन्तं कुपितां नायिकां मुहुर्मुहुरनुनीय विफलप्रयत्नेन नायकेन भेदं
प्रापिता सखी तामुपालभते
-
सन्त्येवात्र गृहे गृहे युवतयस्ताः पृच्छ गत्वाऽधुना
प्रेयांसः प्रणमन्ति किं तव पुनर्दासो यथा वर्तते ।
आत्मद्रोदिणि दुर्जनप्रलपितं कर्णे भृशं मा कृथाः
च्छिन्नस्नेहरसा भवन्ति पुरुषा दुःखानुवृत्त्या यतः ॥ ५९ ॥
(c) Dg कर्णेऽनिशं ; O, Oa दुर्जनः प्रलपितैः
In every house, here, there are young women (like
thee); go and ask them whether their lovers bow down to
them as this thy slave does. Oh thou, thyself thy enemy,
do not lend thy ear to the wild prattle of the wicked: for
by the repetition of painful experience, love's savour is
apt to pall on men. ( 59 ).
अत्रास्मिन्नगरे गृहे गृहे प्रतिगृहं युवतयः तरुण्यः सन्ति विद्यन्त एव ।
अधुना इदानीं गत्वा ताः पृच्छ प्रियोपचार प्रकार मिति शेषः । प्रेयांसः
प्रियतमाः प्रणमन्ति किं प्रेयसीरिति शेषः । तव प्रेयान् पुनः प्रियतमस्तु यथा
प्रेप्य इव वर्तते चरति । आत्मद्रोहिणि आत्मने स्वस्मै यति अपराध्यति
इत्यात्मद्रोहिणी तस्याः संबुद्धिः । दुर्जनप्रलपितं पिशुनजल्पितं कर्णे श्रवणे भृशं
दृढं मा कृथाः मा कुरुष्व । यतः यस्मात्कारणात् पुरुषाः दुःखानुवृत्त्या
दुःखस्यानुवृत्तिः अनुवर्तनं तया खेदानुसंधानेन अनुनयवैय्यर्थ्यजनितखेदानु-
बन्धेनेत्यर्थः । छिन्नस्नेहरसा : गलितप्रेमगुणा भवन्तीति संबन्धः । पुरुषाः
छिन्नस्नेहरसा भवन्तीत्यनेन प्रियस्य प्रेमविच्छेदे सति भवत्याः प्राणपर्यन्तानर्थो
भविष्यतीति सूचितम् । अत्र नायिका स्वीया मध्या च । नायकः शठः ।