This page has not been fully proofread.

७२
 
अमरुशतकम्
 
सखीभिर्मानकरणाय बोधिता नायिका स्वस्या असामर्थ्य ताभ्यो निवेदयति-
 
श्रुत्वा नाम प्रियस्य स्फुटघनपुलकं जायते यत्समन्तात्
सृष्ट्वा यस्याननेन्दुं भवति वपुरिदं चन्द्रकान्तानुकारि ।
तस्मिन्नागत्य कण्ठग्रहनिकटपदस्थायिनि प्राणनाथे
 
भग्ना मानस्य चिन्ता भवति मम पुनर्वज्रमय्याः कथंचित् ॥ ५८ ॥
 
(a) D1,D2,D3,De O, Mg, Bm, Mt नामापि यस्य (b ) 0
भवति पुनरिदं ; T चन्द्रकान्तोऽनुकारि ; Oa,S, Bm, Mt • कान्तानुसारि
(d ) D, मयि पुनर्वज्ञमय्यां
 
When I hear the name of my dearest one, the hair
bristle thickly all over my body; when I see his moon-like
face, this my body behaves like the oozing moon-stone ;
and when he comes and steps close enough to hold me in a
passionate embrace, the thought of sulkiness vanishes from
my adamant heart. (58)
 
यस्य प्रियस्य नाम नामधेयं श्रुत्वा निशम्यापि वपुः यद्यस्मात्कारणात्
समन्तात् सर्वतः स्फुटघनपुलकं' व्यक्तसान्द्ररोमाञ्चं जायते भबति । किं च
यस्याननेन्दुं मुखचन्द्रं दृष्ट्वावलोक्य इदं वपुरेतच्छरीरं चन्द्रकान्तानुकारि
चन्द्रकान्तमनुकरोतीति चन्द्रकान्तानुकारि तद्वत् स्विन्नं भवतीत्यर्थः । तस्मात्
तस्मिन् प्राणनाथे प्राणेश्वरे आगत्य कण्ठग्रहनिकटपदस्यायिनि सति कण्ठस्य
गलस्य ग्रहो ग्रहणमालिङ्गनमित्यर्थः । तस्य निकटपदं समीपस्थानं तत्र तिष्ठतीति
स्थायि तस्मिन् कथंचित् केनापि प्रकारेण वज्रमय्या कुलिशसदृश्याः आरो-
पितकाठिन्यायाः इत्यर्थः । मम पुनर्मानस्य कोपस्य चिन्ता स्मृतिर्भमा विहता
भवति कथं मानः क्रियते । पुनःशब्दो वाक्यालंकारे । अत्र अपराधिनि प्रिये
तस्मिन् अवश्यं मानः कर्तव्य इति प्रोत्साहिसा सती आत्मनः असामर्थ्य
नायिका कथयतीत्यभिप्रायः । अत्र नायिका स्वीया मध्य च । नायकः
शठः । आत्मोपक्षेपरूपं शृङ्गारि नर्म । जातिरलंकारः ।