2025-04-20 14:32:21 by ambuda-bot
This page has not been fully proofread.
शृङ्गारदीपिकाव्याख्योपेतम्
७१
the meaning of the minutest gestures; Oh mother, to whom
may I look for succour? The fire of love dies in the heart
(itself). (57)
सखीषु वयस्यासु विश्वसनं विश्वासः आस्तां तिष्ठतु । विश्वासो नास्तीत्यर्थः ।
विदिताभिप्रायसारे अभिप्रायः आशयस्तस्य सांस्० तत्त्वंग विदितो
ज्ञातोऽभिप्रायसारो येन सः तथोक्तस्तस्मिन् । परेङ्गितविशेषज्ञ इत्यर्थः ।
सललितां सविलासां भावगर्भितामित्यर्थः । दृशं दृष्टिमर्पयितुं प्रयोक्तुमपि
व्रीडया लज्जया न शक्नोमि न क्षमास्मि । हि यस्मात् एष लोको जनः
परोपहासचतुरः परापवादनिपुणः । किं चालमत्यर्थं सूक्ष्मेङ्गितज्ञोऽपि निगूढा
भिप्रायवेदी च । तस्माद्वीडया न शक्नोमि इत्यनुसंधेयम् । हे मातः हे अम्ब
कं शरणं रक्षकं व्रजामि गच्छामि । शरणं नास्तीत्यर्थः । तस्मादनुरागानलः
प्रणयाग्निः हृदये मनसि जीर्णः शान्त इति संबन्धः । अत्रानुरागस्य अनलत्व-
निरूपणं सन्तापकारित्वात् । अत्र परकीया नायिका । कस्मिन्नपि जने
अनुरागं विधाय तं सावरणसंधिदृष्टिसंधिभ्यामावर्जमितुमक्षमा भूत्वा कं शरणं
व्रजामि अनुरागानलो जीर्ण इति धात्र्याः पुरतः स्वावस्थाप्रकटनेन त्वमेव
शरणं नान्यदिति स्वाभिप्रायं सूचितवतीत्यभिप्रायः । दूतीमुखेन संघानं
सावरणसंधिः । स्वयमेव दृष्ट्वा संधानं दृष्टिसंधिः आस्तां विश्वसनं सखी-
ष्वित्यत्र प्रियं प्रति प्रेषिताः सख्यः स्वयमेव तत्र रैतिं कृतवत्यः विश्वासाभावात्
सावरणसंधेर्व्यर्थता दर्शिता । लोकतो मीडया प्रिये दृष्टिमर्पयितुं न शक्नोमीत्यत्र
दृष्टिसंधेरपि असंभवो दर्शितः । अत्र विषादो नाम संचारी भावः । यथोक्तं-
कार्यानिस्तरणादेव व्यापत्त्या राजदोषतः । चौर्यग्रहाद्विषादः स्यान्मनसः
सत्त्वहीनता ॥ वैमनस्यमनुत्साहः सृक्किण्योः परिलेहनम् । उपायान्वेषणं मूर्च्छा
श्वसितं मुखशोषणम् ॥ शयनं ध्यानमित्यादिरनुभावो भवेदिति । संज्वरो
नाम नवमी दशा । चक्षुः प्रीतिर्मनःसङ्गः संकल्पोऽथ प्रलापिता । जागरः
कार्थमरतिर्लज्जात्यागोऽथ संज्वरः ॥ उन्मादो मूर्च्छनं चैव मरणं चरमं
विदुरिति । अयोगविप्रलम्भशृङ्गारः । आत्मोपक्षेपरूपं शृङ्गारि नर्म ।
जातिरलंकारः ।
/
-
( १ ) D2,D,,D,Ds Bm, Mg, Mt, add तत्र तस्मिञ्जने स्वप्रेमा-
लम्बनभूते पुरुषे इत्यर्थः । ( २ ) iMg नष्टः ( ३ ) D, संगति
1