This page has not been fully proofread.

६८
 
अमरुशतकम्
 
The God of love. who indulges his spite through (our)
separation, makes the body extremely thin; the god of
death, who is wilfully merciless is adept in the counting of
days; and thou, too, my lord, art susceptible to the disease
of sulking; think how shall women, tender as young shoots,
remain alive ! (54)
 
कामो मन्मथः विरहविषमः सन् विरहे विप्रयोगे विषमो वक्रः क्रूरः
इत्यर्थः । कामं प्रकामं तनुं शरीरं तनुं कृशां तनुते विधत्ते । यमः कृतान्तः
स्वैरं यथेच्छं व्यपेतघृणः सन् अपगतदयः सन् दिवसगणनादक्षः दिनेसंख्यान-
पटुः मारणव्यमः इत्यर्थः । हे नाथ स्वामिन् त्वमपि मानव्याधेः " नानः
ईर्ष्या कोपः सः एव व्याधिरामयः तस्य । तस्या नायिकाया इति शेषः । वशगः
वशवर्ती मानव्याधिं शमयितुं नोद्युक्त इत्यर्थः । एवं इत्थं सति किसलयमृदुः
प्रवालकोमलः प्रमदाजनः कान्ताजनः कथं केन प्रकारेण जीवेत् प्राणान्
धारयेत् । विचिन्तय विचारयेति संबन्धः । एवं कथं जीवेत् विचिन्तयेत्य-
न औदासीन्यं विहाय शीघ्रमेव तां प्रसाद्य कृतार्थो कुरुष्वेत्यभिप्रायः । अत्र
संज्वरो नाम दशाविशेषोऽवगन्तव्यः । अत्र नामिका स्वीया मध्या च । किं च
कलहान्तरिता । नायकः शठधृष्टयोरन्यतरः । मानकृतो विप्रलम्भशृङ्गारः ।
अत्र सोपालम्भवचनं नर्म । आक्षेपालंकारः ।
 
( १ ) Mg अल्पं ( २ ) D, कुरुते धत्ते ; Mt, Mg कुरुते
विधत्ते ( ३ ) D, विदधाति
( ४ ) D explains कालः
( ५ ) D. दिवससं ० ( ६ ) D. मानव्याधेः ईर्ष्याकोपरूपस्यामयस्य
नायिकाया इति शेषः ( ७ ) D कृतार्थीकुरुष्व ( ८ ) D drops
 
the sentence
 
नायकोक्तिः-
 
----
 
परिम्लाने माने मुखशशिनि तस्याः करधृते
माय क्षीणोपाये प्रणिपतनमात्रैकशरणे ।
तदा पक्मप्रान्तव्रजपुटनिरुद्धेन सहसा
 
प्रसादो वाष्पेण स्तनतटविशीर्णेन कथितः ॥ ५५ ॥
 
( a ) Dg तया पक्ष्मप्रान्तध्वजपटमुखे रुद्ध सहसा