This page has not been fully proofread.

शृङ्गारदीपिकाव्याख्योपेतम्
 
६७
 
She did not fasten her creeper-like arm on the skirt of
his garment, neither did she stand in the doorway, nor did
she frequently fall at his feet, nor speak the word "Stay.",
But as the rogue was about to depart in that dark cloud-
thick weather, she held him back through the swollen river
formed by a flood of her tears. (53)
 
अंशुकपल्लवे प्रियस्य चैलाञ्चले भुजलता नायिकाया दोर्वल्ली न लग्ना
न सक्ता । द्वारदेशे द्वारस्थले नो स्थितं नोषितम् । भावे निष्ठा । पादयुगे
प्रियस्य चरणद्वन्द्वे वा मुहुः पुनः पुनः न पतितं न प्रणतम् । तिष्ठ आस्स्व
इति वचो वचनं वा नोक्तं नोदीरितम् । अम्बुदालिमलिने मेघपटलस्यामे
काले समये गन्तुं प्रयातुं प्रवृत्त उद्युक्तः । शठः अनृजुः अयुक्तकारीत्यर्थः ।
प्रियो वल्लभः तन्व्या केवलं बाप्पजलौघकल्पितनदीपूरेण अनुसलिलसमूह-
संपादिततटिनीप्रवाहेण । केवलशब्दोऽवधारणे । पूरेणैवेत्यर्थः । रुद्धो निवा-
रित इति संबन्धः । अभिप्रायो व्यक्त एव । दैन्यं नाम संचारी भावः ।
नायिका स्वीया मुग्धा च । नायकोऽनुकूलः । आत्मोपक्षेपरूपचेष्टाकृतं
शृङ्गारि नर्म । आक्षेपोऽलंकारः ।
 
( १ ) D, बाहुलतिका ; D3Mt दोर्वल्लरी ( २ ) D3 adds
वर्षाकाले इत्यर्थः ( ३ ) Mg नदीपूरेणैव
सध्या च ( ५ ) Mg, Bm drop शृङ्गारि ;
गृङ्गारि नर्म ; D, आत्मोपक्षेपं शृङ्गारि नर्म
 
T
 
सखी नायकमुपालभते
 
--
 
( ४ ) D3, D4,Mg, Mt
D, आत्मोपक्षेपरूप
 
विरहविषमः कामः कामं तनुं तनुते तनुं
दिवस गणनादक्षः स्वैरं व्यपेतघृणो यमः ।
त्वमपि वशगो मानव्याधेर्विचिन्तय नाथ हे
किसलयमृदुर्जीवेदेवं कथं प्रमदाजनः ॥ ५४ ॥
 
( a ) D,,O,Oa,T,U,Mg,Bm, Mt कुरुते ( b ) D, दक्षश्चायं ;
स्वैरव्यपेत (c) Da
 
त्वमिह