This page has not been fully proofread.

६६
 
अमरुशतकम्
 
There are some pitiable girls who hold back their lovers
about to set out on a journey by gushing tears, by oaths,
by falling at their feet, and by other forms of endearment.
Darling, I am really lucky (I am not feeling miserable as they
do) Go! Good luck ! A good day ! Of my intention befitting
our love, thou wilt, Oh dear, hear after thy departure in the
morning. (52)
 
वान्तैर्निगलितैः लोचनवारिभिः नयनजलैः सशपथैः शपथसहितैः
पादप्रणामैः चरणपतनैः शपथैः पादप्रणामैश्रेत्यर्थः । अन्यैरपरैः प्रियैरिष्ğकरणै-
श्वापि ताः कृपणाः दीनाः स्त्रियः प्रस्थित प्रयाणोद्युक्तं प्राणेश्वरं प्राणनाथं
बिनिवारयन्ति निषेधयन्ति । अहं तु धन्या पुण्या अकृपणेत्यर्थः । प्रयातस्य
प्रयातुमुद्युक्तस्य ते प्रातः प्रभाते सुदिवसं शोभनदिनं मङ्गलं तदेव
माङ्गल्यकारि । व्रज गच्छा । हे प्रियतम त्वं निर्गतः सन् मया स्नेहोचितं
स्स्रेहस्य प्रेम्णः उचितं अहं यदीहितं आचरितं तत् श्रोप्यसि आकर्णयिप्यसि
इति सबन्धः । अत्र स्नेहोचितंमीहितं श्रोष्यसीति अनेन आत्मनो भाविनीं
विपत्तिं सूचयित्वा प्रियस्य गमनं निषेधति इत्यभिप्रायः । नायिका स्वीया
प्रगल्भा च । नायकोऽनुकूलः । भाविप्रवासविप्रलम्भाङ्गारः । सोपालम्भवचनं'
नर्म । आक्षेपोऽलंकारः ।
 
( १ ) D,, D2, Bm, Mt, Mg निर्गतैः ; D' वातै: ( २ ) Do हर्ष-
करणैः ; D,, Mg इष्टकारणै: ( ३ ) DD • माहितं; D2 • महितं
( ४ ) D, Mg, Mt निषेधयति ; D निषेध्यति ; Bm निवारयति
( ५ ) Bm मध्या ( ६ ) Mg शृङ्गारि नर्म
 
कबेर्वाक्यम् -
 
लना नांशुकपल्लवे भुजलता नो द्वारदेशे स्थितं
नो वा पादयुगे मुहुर्निपतितं तिष्ठेति नोक्तं वचः ।
काले केवलमम्बुदालिमलिने गन्तुं प्रवृत्तः शठः
 
तन्व्या बाप्पजलौघकल्पितनदीपुरेण रुद्धः प्रियः ॥ ५३ ॥
( a ) D द्वारदेशेऽर्पिता (d ) Bm तस्या बाष्प ० .